आगमनपद्धतिः (विधि) Inductive Method
अयं विधिः प्रतिपादयति यत् छात्राणाम् पुरतः, बहूनि तत्त्वानि, वस्तूनि वा अस्माभिः प्रस्तूयन्ते । अर्थ:- उदाहरणानि प्रस्तूय ततो नियम निर्धारणन्नाम आगमनम्। जोसफलेण्डन ततः परं नियमाश्च निश्चीयन्ते तर्हि आगमनविधिरनसर्यंत इत्यर्थः । प्रयोग प्रामाण्यमवलोक्य उदाहरणानां साहाय्येन सामान्यीकृतस्य नियमस्य निर्धारणमेव आगमनविधिरिति नाम्ना व्यवहियते। इयमेका मनोवैज्ञानिकी पद्धतिः। अनया पद्धत्या सर्वासु भाषासु मनोवैज्ञानिकरीत्या व्याकरणं अध्यापयितुं शक्यते। लक्ष्यं प्रदर्थ्य लक्षणपरिकल्पन्नाम आगमनम्। लोके लक्ष्यमेव प्रथमं गण्यम् ।” असत्येवत्र्त्मनि स्थित्वा ततः सत्यं समीहते” इति भर्तृहरीणां कथनं चरितार्थत्वे-लक्ष्यं प्रथमं लक्षणं तदनुयायि इति फलति। पाणिनिना लक्ष्यमवलम्यैव लक्षणमकारीत्यागमनमेव प्रक्रियाग्रन्थाः लक्ष्यप्रदर्शनार्थमेव प्रवृत्ताः, ततः लक्षणसमन्वय इति तेषां क्रमः। एवं भट्टिकाव्यमित्यादयः ग्रन्थाः आगमनविधिमनुसरन्ति। तत्र प्रयोगस्य प्राधान्यम् । न्यायशास्त्रेऽपि इन्द्रियार्थसन्निकर्षजन्यज्ञानं प्रत्यक्षम् “इति लक्षणमुक्त्वा यदनुव्याख्यान द्वारा सोदाहरणं विशदी क्रियते। साहित्यशास्त्रेऽपि “गद्यपद्य मयं काव्यं चम्पूरित्यभिधीयते” इति परिकल्पनानन्तरं तथा विधस्य काव्यस्य उत्पत्तिरिति। एवमेव “वाक्यं रसात्मकं काव्यम्” “रमणीयार्थ प्रतिपादकः शब्दः काव्यम्” इति लक्ष्यमनुलक्षण-प्रकल्पनम्। भगवान् पतञ्जलिरपि “लक्ष्यलक्षणं व्याकरणम्” इति आगमनविधिं स्वीकुर्वन्ति। छात्राणां पुरतः बहून्युदाहरणानि, तत्त्वानि, वस्तूनि वाऽस्माभिः प्रस्तूयन्ते। ततः परं नियमाश्च निश्चीयन्ते, तर्हि आगमनविधिः अनुसर्तव्यः इत्यर्थः। प्रयोग प्रमाण्यमवलोक्य उदाहरणानां साहाय्येन सामान्यीकृतस्य नियमस्य निर्धारणमेव आगमनविधिरिति नाम्ना व्यवहूियते । तत्सम्बन्धिनी तत्त्वानि उदाहरणानि वा निरीक्ष्य, तुलनां वर्गीकरणं च विधाय स्वयमेव नियमानां निर्धारणं छात्राः कुर्युः। अत्र विधौ ज्ञातादज्ञातं प्रति, विशेषात्सामान्यं प्रति, स्थूलात्सूक्ष्मं प्रति, इत्यादीनि शिक्षण-सुत्राण्यन्तर्निहितानि वर्तन्ते। Induce इति आंग्लधातोः अंगीकरणम् तत् Inducement इति व्यवहियते । Induce ment माध्यमेन या पद्धतिः प्रचलति सा आगमन पद्धतिः [Indoctive method] इति व्यवहीयते। समानधर्मसहितपदसमूहान् समानवर्गेषु वर्गीकृत्य छात्राणां साह्यय्येन तानि श्यामफलके लेखापनीयानि। यथा- नर +इन्द्र= नरेन्द्र, देव+इन्द्र= देवेन्द्रः, लंका+ईश = लंकेशः, पुरूष+ उत्तमः= पुरूषोत्तमः, यथा +उचितम् =यथोचितम्, महा+ऋषिः =महर्षि, अत्र प्रथम पदस्यान्ते विद्यमान अज्वर्णः कः ? द्वितीय पदस्यादौ विद्यमान अज्वर्णः कः इति प्रष्टव्यः। प्रतिपूर्वपदस्यान्ते ह्रस्व/दीर्घ अकारः स्यात्। प्रत्युत्तरपदस्य आदिमवर्ण अञ्वर्णेषु कोऽपि वर्णः स्यात् । (अ /आ+ इ /ई= ए, अ /आ+उ/ऊ = ओ, अ /आ+ऋ =अर्) ह्रस्व दीर्घ अकारस्य हस्व दीर्घ इ उ ऋ वर्णाः परतो भवन्ति चेत् क्रमशः ए ओ अर् आदेशाः भवन्ति, एतदपि छात्रैः स्वयं निष्कासनीयम् ।
image

आगमनविधेः सोपानानि-
अत्र प्रमुखतया चत्वारि पदानि शिक्षणोपयोगीनि अनुस्रियन्ते ।
यथा-
- उदाहरण प्रस्तावः – छात्राणां समक्ष समानोदाहरणानि प्रस्तूयात् शिक्षकः । व्याकरण-शिक्षणावसरे अध्यापकः गणेशः, छात्रोपस्थिति, महर्षि, शब्दान् प्रस्तौति। छात्राः सावधानं उदाहरणानि श्रृण्वन्ति, पश्यन्ति, पठन्ति च।
- निरीक्षणम्– प्रस्तुतत्तत्त्वानां तुलनात्मकं निरीक्षणमेव द्वितीयं पदं भवति। प्रस्तुतोदाहरणे छात्राः विश्लिष्य विवेचयन्ति ।
- नियमनिर्धारणम्-तत्त्वानां निरीक्षणात्परं नियमपरिकल्पनन्नामेव तृतीयं पदम्।
पूर्वोक्तान् शब्दान् विच्छिद्य नियमं परिकल्पयन्ति। “अकाराकाराभ्यां सह इकारईकारयोः मेलनेन एकारः एकादेशः भवति। एवं अकाराकाराभ्यां सह उऊकारयोः मेलनेन ओकारः भवति। तथा अकाराकाराभ्यां सह ऋकारस्य मेलनेन ‘र’ इति च भवति” इति नियमं निर्धारयन्ति ।
- परीक्षणम्-निर्धारितस्य नियमस्य लक्ष्ये पुनः परीक्षणमेव चतुर्थ सोपानम्। यथा-उपेन्द्र, गंगोदकम्, राजर्षि, इत्यादि नवोदाहरणैः स्वीकृतं नियमं परीक्ष्य प्रमाणयन्ति।
आगमनपद्धत्याः गुणाः
- छात्राः सूत्राणि सूत्रार्थानि च स्वयं जानीयुः ।
- सूत्र निर्माणं परिभाषा निर्माणं च स्वयं क्रियते, अतः बहुकालपर्यन्तं विस्मर्तुमवकाशो नास्ति ।
- सूत्राणि परिभाषाश्च स्वयं निर्मिता इति हेतोः कण्ठस्थीकरणस्यावश्यकता नास्ति ।
- उदाहरणान्याधारीकृत्य व्याकरणाध्यापनं प्रचलेत् ।
- अनया व्याकरणाध्ययने छात्राः अभिरूचिं प्रदर्शयेयुः।
- स्वयं कृते अधिकतया प्राधान्यं भवेत्।
- सन्दर्भानुसारम् व्याकरणमधीयते ।
- पाठ्यपुस्तकानां साहाय्येन व्याकरणाध्ययनं भवति, अतः अध्ययने छात्राः भीता न भवेयुः ।संस्कृतशिक्षणम्9. व्याकरणाध्ययनाय एषा सुलभा पद्धतिः।10. लक्ष्यं प्रदर्य लक्षणं कल्प्यते अतः छात्राः रुचिं प्रदर्शयेयुः।11. छात्राः अत्यन्तं सक्रियाः भवन्ति।आगमनपद्धत्यां विद्यमानाः दोषाः1. अध्यापकानां कृते क्लेशः अधिकः भवति अस्यां पद्धत्याम्।2. शास्वगतानि उदाहरणानि ज्ञातुमवकाशो नास्त्यस्याम् ।3. व्याकरण शिक्षणे समयः बहुः अपेक्षितः भवेदस्याम् पद्धत्याम् ।4. सम्बद्धोदाहरणानामनुस्मरणमपि क्लेशः भवेत् छात्राणाम्।
- निगमनविधिः-Deductive methodअर्थ-लक्षणमनुलक्ष्यप्रदर्शनन्नाम निगमनविधिरिति। जोसफ लेण्डन् स्पष्टयति- “शिक्षणं निगमनविधिद्वारा प्रथमं परिभाषा नियमो वा पाठ्यते। ततः सावधानमर्थ व्याख्याय, प्रयोगान् प्रदर्घ्य तत्वानि स्पष्टोक्रियन्ते” इति। “अस्मिन् विधावध्यापकः प्रथमं नियमान् समुपस्थापयति। काचनोदाहरणानि प्रदर्थ्य उक्तनियमान् लक्ष्ये समन्वेति”। लक्षणात् लक्ष्यं प्रति गच्छति निगमनविधिः। नियमान् प्रस्तूय प्रयोगप्रदर्शनं निगमनं भवति। लक्षणमनु लक्ष्य प्रदर्शनन्नाम निगमनविधिरिति। वस्तुतः आगमन निगमन-पद्धत्योर्मध्ये विरोधः न भवति। आगमनपद्धत्याः कृते निगमन पद्धतिः पूरका भवितुमर्हति। सूत्रं सम्पूर्णतयावगाहनपर्यन्तं आगमन-पद्धतिराश्रयणीया, तदनन्तरं निगमन पद्धतिः आश्रयणीया। निगमन पद्धतेः परम्परागत पद्धतिः: सूत्रपद्धतिः लक्षणपद्धतिरिति नामान्तराणि सन्ति।Deduce इति आंग्ल भाषायाः धातुः अस्य मूलम्। तेन Deductive method प्रचलन्ति। सूत्रमनुसृत्य लक्ष्यानुस्मरणम् इति अस्यार्थः भवति। विधिरयं सामान्याद्विशेषं प्रति, काल्पनिकात्सत्यं प्रति, स्थूलात्सूक्ष्मं प्रति, इत्यादीनि शिक्षण-सूत्राण्याश्रित्य वर्तते। उपरि निर्दिष्टयनां समालोचनेनेदं स्पष्टं प्रतीयेत यत् निगमनन्नाम नियमानां, सूत्राणां, लक्षणानां वा प्रस्तावानन्तरं उदाहरणरूपेण प्रयोगप्रदर्शनमेवेति। यथा “इको यणचि “इत्यत्र “इकः स्थाने यण् स्याद् अचि परे” इति नियममुक्त्वा ‘प्रति+अपि ‘इत्युदाहरणे नियमस्य समन्वयः क्रियते निगमनविधी।निगमनविधेस्सोपानानि अस्य विधेः प्रयोगः क्रमबद्धरूपेण कानिचन् सोपानान्याश्रित्य क्रियते। तत्रक्रमे अधोलिखितपदानि भवितुमर्हन्ति-1. नियमः – छात्राणांपुरतः कस्यचित्नित्यमस्योपस्थापनं क्रियते। यथा-शिक्षकः “नमः स्वस्ति स्वाहास्वधाऽलं वषट्योगाच्व” इति नियममुपस्थापयति ।2. स्पष्टीकरणम्-उक्त नियमस्य सरलैः वाक्यैः स्पष्टतया प्रतिपादनमेव भवति। यथा-पूर्वोक्तस्य सूत्रस्य स्पष्टप्रतिपादनं एवं भवितुमर्हति नमः, स्वस्ति, स्वाहा, स्वधा, अलं, वषट् इति पदानां योगे चतुर्थी विभक्तिरेव भवति।3. प्रयोगप्रदर्शनम् – उक्त नियमस्य लक्ष्ये समन्वयः अत्र क्रियते। यथा-प्रकृतोदाहरणे
शिक्षकः “हरये नमः, पुत्राय स्वस्ति, अग्नये स्वाहा, पितृभ्यः स्वधा, इन्द्राय, वषद” इति प्रयोगान् प्रदर्श्व पूर्वोक्तं नियमं समन्वेति। ततः नियमं स्पष्टपति च।4. पुनः परीक्षणम्-पृथगुदाहरणं प्रस्तूय नियमस्य परीक्षणं विधीयते। यथा-व्यवहारे एषां शब्दानां योगे नियमः कथं प्रवर्तते इति दर्शयितुं शिक्षकः व्यावहारिकाणि वाक्यानि उपस्थापयति। “शिवाय नमः, शिष्याय स्वस्ति, ब्रह्मणे नमः, “इति व्यवहारान् प्रदर्थ्य नियमस्य पुनः परीक्षणं कारयति। उदाहरणानि प्रस्तीतुं छात्रानपि प्रेरयति।
निगमनपद्धत्याःगुणाः
1. अनया पद्धत्या स्पष्टतया व्याकरणमध्यापितुं शक्यते।
2. छात्रा:अनया पद्धत्या व्याकरणनियमान् ज्ञात्वा सुशब्दापशब्दनिर्णायकाः भवितुं शक्नुवन्ति।
3. एषा मनोविज्ञाननियमविरूद्धा तथापि उच्चकोटी विद्यमानाः बहवः वैयाकरणाः अनया पद्धत्या एवं व्याकरणमधीत्य प्रख्याताः जाताः।
4. अनया पद्धत्या व्याकरणमधीताश्छात्राः भाषागताशुद्धीः न्यूनं कुर्युः। अल्पं लिखतु बदतु वा तेषां लेखने पठने च दोषाः न स्युः।
5. अस्यां भाषायां विशिष्ट ज्ञानसम्पादनार्थं एषा पद्धतिरावश्यकी इति।
6. अध्यापकस्य कार्य सरली करोति।
7. छात्राः सक्रियाः भवन्ति, अल्पीयसि काले ज्ञानं पापयन्ति।
8. स्मरणशक्तिः वर्धयति, अतः छात्राः नियमान् कण्ठस्थं कुर्वन्ति ।
निगमनपद्धत्याः दोषाः
1.पद्धतिरेषा अमनोवैज्ञानिकी।
2. अस्यां पद्धत्यां संज्ञा, परिभाषा, सूत्राणि च अत्यधिकानि भवन्ति, अतः एतेषां सर्वेषां कण्ठस्थीकरणम् वहुक्लेशकरमेव।
3. अनया पद्धत्या छात्राः व्याकरणम् अध्येतुं अभिरुचिं न प्रदर्शयेयुः।
4. व्याकरणाध्ययने छात्राः वहुन् क्लेशानुभवेयुः।
5. नीरसतामुत्पादयति च।
आगमननिगमनविधिःआगमनविधिः निगमनविधि, इति द्वावपि परस्परं विरूद्धे मार्गे प्रचलतः। तथाऽपि एतौ परस्परं न्यूनताः पूरयतः। अत एव शिक्षाविद् एतयोरैक्यं वाञ्छन्ति। यतो हि आगमनविधिः नियमं निर्धायति परीक्षणात्मकपदे निगमनविधिवदेव कर्म करोति। एवं निगमनविधिरपि उदाहरणानि प्रस्तूय समन्वयसोपाने आगमनविधिवदेव कर्म करोति। एवं परस्परं पूरकौ वर्तते। अतः एतयोः न्यूनताः तथैव दूरीकृता भवन्ति। यथा एतौ संयोजितौ संश्लिष्टौ वा भवेताम्। एतयोः सार्थकं संयोजनं शिक्षणे विशिष्य व्याकरणाध्यापने लाभप्रदं भवेत्। वस्तुतः एतयोः पारस्परिकः सम्बन्धः तादृशः वर्तते, यथा आगमनेन विना निगमनं न भवति, निगमनेन विनाआगमनं च न भवति। अतः एतौ संयोज्य “आगमननिगमनविधि” इति नाम्नैव व्यवहरेत् प्रयोजयेच्च। यदि उपर्युक्तरीत्या संयुक्त विधिना शिक्षणं क्रियेत, तर्हि निस्संशयेन साफल्यम् अपि अवाप्येत। एतादृशमेव शिक्षणं व्यावहारिकं सत्यम्, वैज्ञानिकं च भवेत्। अतः अध्यापकाः अनेन संयुक्तविधिना व्याकरणमध्यापयितुं शक्यन्ते। अनेन छात्राणां बौधिकविकासः, क्रियाशीलताया विकासः, स्थायिज्ञानम् इत्यादयः लाभाः भवन्ति।
